|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.223. अध्यायः 223
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
परमेश्वरेण पार्वतीप्रति प्राणिनां चण्डालत्वदरिद्रत्वादिप्रापकदुष्कर्मप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्मानुषेष्वेव मानुषाः समदर्शनाः।
चण्डाला इव दृश्यन्ते स्पर्शमात्रविदूषिताइः॥ 13-223-1(90145)
नीचकर्मरता देव सर्वेषां मलहारकाः।
दुर्गताः क्लेशभूयिष्ठा विरूपा दुष्टचेतसः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-2(90146)
महेश्वर उवाच। 13-223-3x(7563)
तदहं ते प्रवक्ष्यामि तदेकाग्रमनाः शृणु॥ 13-223-3(90147)
ये पुरा मनुजा देवि अतिमानयुता भृशम्।
आत्मसम्भावनायुक्ताः स्तब्धा दर्पसमन्विताः॥ 13-223-4(90148)
प्रणामं तु न कुर्वन्ति गुरूणामपि पामराः।
ये स्वधर्मार्पणं कार्यमतिमानान्न कुर्वते॥ 13-223-5(90149)
परान्संनामयन्त्येव आज्ञयात्मनि ये बलात्।
ऋद्धियोगात्परान्नित्यमवमन्यन्ति मानवान्।
पानपाः सर्वभक्षाश्च परुषाः कटुका नराः॥ 13-223-6(90150)
एवंयुक्तसमाचाराक दण्डिता यमशासनैः।
कथंचित्प्राप्य मानुष्यं चण्डालाः सम्भवन्ति ते॥ 13-223-7(90151)
नीचकर्मरताश्चैव सर्वेषां मलहारकाः।
परेषां वन्दनपरास्ते भवन्त्येव मानिनः॥ 13-223-8(90152)
विरूपाः पापयोनिस्थाः स्पर्शनादिविवर्जिताः।
कुवृत्तिमुपजीवन्ति भुत्वा ते रजकादयः।
पुराऽतिमानदोषात्तु भुञ्जते स्वकृतं फलम्॥ 13-223-9(90153)
तानप्यवस्ताकृपणांश्चण्डालानपि बुद्धिमान्।
न च निन्देन्नापि कुप्येद्भुञ्जते स्वकृतं फलम्।
चण्डाला अपि तां जातिं शोचन्तः शुद्धिमाप्नुयुः॥ 13-223-10(90154)
उमोवाच। 13-223-11x(7564)
भगवन्मानुषाः केचिदाशापाशशतैर्वृताः।
परेषां द्वारि तिष्ठन्ति प्रतिषिद्धाः प्रवेशने॥ 13-223-11(90155)
द्रष्टुं ज्ञापयितुं चैव न लभन्ते च यत्नतः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-12(90156)
महेश्वर उवाच। 13-223-13x(7565)
ये पुरा मानुषा देवि ऐश्वर्यस्थानसंयुताः।
संवादं तु न कुर्वन्ति परैरैश्वर्यमोहिताः॥ 13-223-13(90157)
द्वाराणि न ददत्येव लोभमोहादिभिर्वृताः।
अवस्थामोहसंयुक्ताः स्वार्थमात्रपरायणाः॥ 13-223-14(90158)
सर्वभोगयुता वाऽपि सर्वेषां निष्फला भृशम्।
अपि शक्ता न कुर्युस्ते परानुग्रहकारणात्॥ 13-223-15(90159)
निर्दयाश्चैव निर्द्वारा भोगैश्वर्यगतिं प्रति।
एवंयुक्तसमाचाराः पुनर्जन्मनि शोभने॥ 13-223-16(90160)
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
दुर्गता दुरवस्थाश्च कर्मव्याक्षेपसंयुताः॥ 13-223-17(90161)
अभिधावन्ति ते सर्वे तमर्थमभिवेदिनः।
राज्ञां वा राजमात्राणां द्वारि तिष्ठन्ति वारिताः॥ 13-223-18(90162)
कर्म विज्ञापितुं द्रष्टुं न लभन्ते कथञ्चन।
प्रवेष्टुमपि ते द्वारं बहिस्तिष्ठन्ति काङ्क्षया॥ 13-223-19(90163)
उमोवाच। 13-223-20x(7566)
भगवन्मानुषाः केचिन्मनुष्येषु बहुष्वपि।
सहसा नष्टसर्वस्वा भ्रष्टकोशपरिग्रहाः॥ 13-223-20(90164)
दृश्यन्ते मानुषाः केचिद्राजचोरोदकादिभिः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-21(90165)
महेश्वर उवाच। 13-223-22x(7567)
ये पुरा मानुषा देवि आसुरं भावमाश्रिताः।
परेषां वृत्तिनाशं तु कुर्वते द्वेषलोभतः॥ 13-223-22(90166)
उत्कोचनपराश्चैव पिशुनाश्च तथाविधाः।
परद्रव्यहरा घोराश्चौर्याद्वाऽन्येन कर्मणा॥ 13-223-23(90167)
निर्दया निरनुक्रोशाः परेषां वृत्तिनाशकाः।
नास्तिकाऽनृतभूयिष्ठाः परद्रव्यापहारिणः॥ 13-223-24(90168)
एवंयुक्तसमाचारा दण्डिता यमशासनैः।
निरयस्थाश्चिरं कालं तत्र दुःखसमन्विताः॥ 13-223-25(90169)
यदि चेन्मानुषं जन्म लभेरंस्ते तथाविधाः।
तत्रस्थाः प्राप्नुवन्त्येव सहसा द्रव्यवाशनम्॥ 13-223-26(90170)
कष्टं तत्प्राप्नुवन्त्येव कारणाकारणादपि।
नाशं विनाशं द्रव्याणामुपघातं च सर्वशः॥ 13-223-27(90171)
उमोवाच। 13-223-28x(7568)
भगवन्मानुषाः केचिद्बान्धवैः सहसा पृथक्।
कारणादेव सहसा सर्वेषां प्राणनाशनम्॥ 13-223-28(90172)
शस्त्रेण वाऽन्यथा वाऽपि प्राप्नुवन्ति वधं नराः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-29(90173)
महेश्वर उवाच। 13-223-30x(7569)
ये पुरा मनुजा देवि घोरकर्मरतानृताः।
आसुराः प्रायशो मूर्खाः प्राणिहिंसाप्रिया भृशं॥ 13-223-30(90174)
निर्दयाः प्राणिहिंसायां तथा प्राणिविघातकाः।
विश्वस्तघातकाश्चैव तथा सुप्तविघातकाः।
प्रायशोऽनृतभूयिष्ठा नास्तिका मांसभोजनाः॥ 13-223-31(90175)
एवंयुक्तसमाचाराः कालधर्मं गताः पुनः।
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये॥ 13-223-32(90176)
तिर्यग्योनिं पुनः प्राप्य तत्र दुःखपरिक्षयात्।
यदि चेन्मानुपं जन्म लभेरंस्ते तथाविधाः।
तत्र ते प्राप्नुवन्त्येव वधबन्धान्यथा तथा॥ 13-223-33(90177)
आढ्या वा दुर्गता वाऽपि भुञ्जते स्वकृतं फलम्।
सुप्ता मत्ताश्च विश्वस्तास्तथा ते प्राप्नुवन्त्युत॥ 13-223-34(90178)
प्राणवाधकृतं दुःखं बान्धवैः सहसा पृथक्।
पुत्रदारविनाशं वा शस्त्रेणान्येन वा वधम्॥ 13-223-35(90179)
उमोवाच। 13-223-36x(7570)
भगवन्मानुषाः केचिद्राजनीतिविशार दैः।
दण्ड्यन्ते मानुषे लोके मानुषाः सर्वतोभयाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-36(90180)
महेश्वर उवाच। 13-223-37x(7571)
ये पुरा मनुजा देवि मानुषांश्चेतराणि वा।
क्लिष्टघातेन निघ्नन्ति प्राणान्प्राणिषु निर्दयाः।
आसुर घोरकर्माणः क्रूरदण्डवधप्रियाः॥ 13-223-37(90181)
ये दण्डयन्त्यदण्ड्यांश्च राजानः कोपमोहिताः।
हिंसाहङ्कारपरुषा मांसादा नास्तिकाशुभाः॥ 13-223-38(90182)
केचित्स्त्रीपुरुषघ्नाश्च गुरुघ्नाश्च तथा प्रिये।
एवंयुक्तसमाचारा प्राणिधर्मं गताः पुनः॥ 13-223-39(90183)
दण्डिता यमदण्डेन निरयस्थाश्चिरं प्रिये।
पूर्वजन्मकृतं कर्म भुञ्जते तदिह प्रजाः॥ 13-223-40(90184)
इहैव यत्कर्म कृतं तत्परत्र फलत्युत।
एषा व्यवस्थितिर्देवि मानुषेष्वेव दृश्यते॥ 13-223-41(90185)
न चर्षीणां न देवानाममृतत्वात्तपोबलात्।
तैरेकेन शरीरेण भुज्यते कर्मणः फलम्॥ 13-223-42(90186)
न तथा मानुषाणां स्यादन्तर्धाय भवेद्धि तत्॥ 13-223-43(90187)
उमोवाच। 13-223-44x(7572)
किमर्थं मानुषा लोके दण्ड्यन्ते पृथिवीश्वरैः।
कृतापराधमुद्दिश्य हन्ता हर्ताऽयमित्युत॥ 13-223-44(90188)
पुत्रार्थी पुत्रकामेष्ट्या इहैव लभते सुतान्।
तैरेव हि शरीरेण भुञ्जन्ते कर्मणां फलम्॥ 13-223-45(90189)
दृश्यन्ते मानुषे लोके तद्भवान्नानुमन्यते।
एतन्मे संशयस्थानं तन्मे त्वं छेत्तुमर्हसि॥ 13-223-46(90190)
महेश्वर उवाच। 13-223-47x(7573)
स्थाने संशयितं देवि तत्त्वं शृणु समाहिता।
कर्म कर्मफलं चेति युगपद्भुवि नेष्यते॥ 13-223-47(90191)
ये त्वयाऽभिहिता देवि हन्ता हर्ताऽयमित्यपि।
तेषां तत्पूर्वकं कर्म दण्ड्यते यत्र राजभिः॥ 13-223-48(90192)
देवि कर्म कृतं चैषां हेतुर्भवति शासने।
अपराधापरेशेन राजा दण्डयति प्रजाः॥ 13-223-49(90193)
इह लोके व्यवस्थार्थं राजभिर्दण्डनं स्मृतम्।
उद्वेजनार्थं शेषाणामपराधं तमुद्दिशन्॥ 13-223-50(90194)
पुराकृतफलं दण्डो दण्ड्यमानस्य तद्ध्रुवम्।
प्रागेव च मया प्रोक्तं तत्र निःसंशया भव॥ 13-223-51(90195)
उमोवाच। 13-223-52x(7574)
भगवन्भुवि मर्त्यानां दण्डितानां नरेश्वरैः।
दण्डेनैव तु तेनेह पापनाशो भवेन्न वा। 13-223-52(90196)
एतन्मया संशयितं तद्भवांश्छेत्तुमर्हति॥ 13-223-53(90197)
महेश्वर उवाच।
स्थाने संशयितं देवि शृणु तत्वं समाहिता॥ 13-223-53x(7575)
ये नृपैर्दण्डिता भूमावपराधापदेशतः।
यमलोके न दण्ड्यन्ते तत्र ते यमदण्डनैः॥ 13-223-54(90198)
अदण्डिता वा ये मिथ्या मिथ्या वा दण्डिता भुवि।
तान्यमो दण्डयत्येव स हि वेद कृताकृतम्।
नातिक्रमेद्यमं कश्चित्कर्म कृत्वेह मानुषः॥ 13-223-55(90199)
राजा यमश्च कुर्वाते दण्डमात्रं तु शोभने।
उभाभ्यां यमराजभ्यां दण्डितोऽदण्डितोपि वा।
पश्चात्कर्मफलं भुङ्क्ते नरके मानुषेषु वा॥ 13-223-56(90200)
नास्ति कर्मफलच्छेत्ता कश्चिल्लोकत्रयेऽपि च।
इति ते कथितं सर्वं निर्विशङ्का भव प्रिये॥ 13-223-57(90201)
उमोवाच। 13-223-58x(7576)
किमर्थं दुष्कृतं कृत्वा मानुषा भुवि नित्यशः।
पुनस्तत्कर्मनाशाय प्रायश्चित्तानि कुर्वते॥ 13-223-58(90202)
सर्वपापहरं चेति हयमेधं वदन्ति च।
प्रायश्चित्तानि चान्यानि पापनाशाय कुर्वते।
तस्मान्मया संशयितं त्वं तच्छेत्तुमिहार्हसि॥ 13-223-59(90203)
महेश्वर उवाच। 13-223-60x(7577)
स्थाने संशयितं देवि शृणु तत्वं समाहिता।
संशयो हि महानेव पूर्वेषां च मनीषिणाम्॥ 13-223-60(90204)
द्विधा तु क्रियते पापं सद्भिश्चासद्भिरेव च।
अभिसन्धाय वा नित्यमन्यथा वा यदृच्छया॥ 13-223-61(90205)
केवलं चाभिसन्धाय संरम्भाच्च करोति यत्।
कर्मणस्तस्य नाशस्तु न कथंचन विद्यते॥ 13-223-62(90206)
अभिसन्धिकृतस्यैव नैव नाशोस्ति कर्मणः।
अश्वमेधसहस्रैश्च प्रायश्चित्तशतैरपि॥ 13-223-63(90207)
अन्यथा यत्कृतं पापं प्रमादाद्वा यदृच्छया।
प्रायश्चित्ताश्वमेधाब्यां श्रेयसा तत्प्रणश्यति॥ 13-223-64(90208)
लोकसंव्यवहारार्थं प्रायश्चित्तादिरिष्यते।
विद्ध्येवं पापके कार्ये निर्विशङ्का भव प्रिये॥ 13-223-65(90209)
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि॥ 13-223-66(90210)
उमोवाच। 13-223-67x(7578)
भगवन्देवदेवेश मानुषाश्चेतरा अपि।
म्रियन्ते मानुषा लोके कारणाकारणादपि।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि॥ 13-223-67(90211)
महेश्वर उवाच। 13-223-68x(7579)
ये पुरा मनुजा देवि कारणाकारणादपि।
यथाऽसुभिर्वियुज्यन्ते प्राणिनः प्राणिनिर्दर्यः॥ 13-223-68(90212)
तथैव ते प्राप्नुवन्ति यथैवात्मकृतं फलम्।
विषदास्तु विषेणैव शस्त्रैः शस्त्रेण घातकाः॥ 13-223-69(90213)
एवमेव यथा लोके मानुषान्घ्नन्ति मानुषाः।
कारणेनैव तेनाथ तता स्वप्राणनाशनम्।
प्राप्नुवन्ति पुनर्देवि नास्ति तत्र विचारणा॥ 13-223-70(90214)
इति ते कथितं सर्वं कर्मपाकफलं प्रिये।
भूयस्तव समासेन कथयिष्यामि तच्छृणु॥ 13-223-71(90215)
सत्यप्रमाणकरणान्नित्यमव्यभिचारि च।
यैः पुरा मनुजैर्देवि यस्मिन्काले यथा कृतम्॥ 13-223-72(90216)
येनैव कारणेनापि कर्म यत्तु शुभाशुभम्।
तस्मन्काले तथा देवि कारणेनैव तेन तु॥ 13-223-73(90217)
प्राप्नुवन्ति नराः प्रेत्य निःसन्देहं शुभाशुभम्।
इति सत्यं प्रजानीहि लोके तत्र विधिं प्रति॥ 13-223-74(90218)
कर्मकर्ता नरो भोक्ता स नास्ति दिवि वा भुवि।
न शक्यं कर्म चाभोक्तुं सदेवासुरमानुषैः॥ 13-223-75(90219)
कर्मणा ग्रथितो लोक आदिप्रभृति वर्तते।
एतदुद्देशतः प्रोक्तं कर्मपाकफलं प्रति॥ 13-223-76(90220)
यदन्यच्च मया नोक्तं यस्मिंस्ते कर्मसङ्ग्रहे।
बुद्धितर्केण तत्सर्वं तथा वेदितुमर्हसि।
कथितं श्रोतुकामाया भूयः श्रोतुं किमिच्छसि॥ ॥ 13-223-77(90221)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः॥ 223 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|